मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १५, ऋक् १९

संहिता

व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त॑म् ।
अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ॥

पदपाठः

व॒यम् । ऊं॒ इति॑ । त्वा॒ । गृ॒ह॒ऽप॒ते॒ । ज॒ना॒ना॒म् । अग्ने॑ । अक॑र्म । स॒म्ऽइधा॑ । बृ॒हन्त॑म् ।
अ॒स्थू॒रि । नः॒ । गार्ह॑ऽपत्यानि । स॒न्तु॒ । ति॒ग्मेन॑ । नः॒ । तेज॑सा । सम् । सि॒शा॒धि॒ ॥

सायणभाष्यम्

हेगृहपते यज्ञानांपालकाग्ने जनानां प्राणिनांमध्ये वयमु वयमेव त्वा त्वांसमिधा समिन्धनेन बृहन्तं महान्तं अकर्म कृतवन्तःस्मः अतः कारणात् नोस्माकं गार्हपत्यानिगृहपतित्वानि अस्थूरि अस्थूरिणि एकाश्वयुक्तःशकटःस्थूरिरित्युच्यते तद्विपरीतोबहुभिरश्वैरुपेतःशक- टोऽस्थूरिः तेनचसंपूर्णतालक्ष्यते अस्थूरिणि पुत्रपशुधनादिभिः संपूर्णानिभवन्तु अपिच नोस्मान् तिग्मेन तीक्ष्णेनतेजसा संशिशाधि सम्यङ्गिश्य सम्यक् तीक्ष्णीकुरु संयोजयेत्यर्थः ॥ १९ ॥

द्वितीयेनुवाके अष्टसूक्तानि तत्रत्वमग्नेयज्ञानामितिअष्टाचत्वारिंशदृचंप्रथमंसूक्तं भरद्वाद्जस्यार्षमाग्नेयं आद्याषष्ठीचवर्धमानागायत्री- षट्कसप्तकाष्टकाःसावर्धमानेत्युक्तलक्षणोपेतत्वात् सप्तविंशयनुष्टुप् आतेअग्नेअग्निंदेवासइत्येतेऋचावनुष्टुभौ तयोःपूर्वावीतीयोदेवमिति- त्रिष्टुप् शिष्टाद्वाचत्वारिंशदृचोगायत्र्यः तथाचानुक्रम्यते—त्वमग्नेष्टाचत्वारिंशद्गायत्रं वर्धमानाद्याषष्ठीचसप्तविंश्यनुष्टुप् त्रिष्टुपपूर्वेचांत्येइ- ति प्रातरनुवाकाश्विनशस्त्रयोराग्नेयेक्रतौगायत्रेछन्दसीदंसूक्तमुच्यते तत्रान्त्यास्तिस्रऋचउद्धर्तव्याः सूत्र्यतेहि—त्वमग्नेयज्ञानामितितिस्र- उत्तमामुद्धरेदिति । विश्वजितिआग्निमारुते बृहत्सामयद्यग्निष्टोमसामस्यात् तदानीं आद्याःषळृचःस्तोत्रियानुरूपार्थाः सूत्रितंहि—त्वमग्ने- यज्ञानामितिस्तोत्रियनुरूपाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०