मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १

संहिता

त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे॑षां हि॒तः ।
दे॒वेभि॒र्मानु॑षे॒ जने॑ ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । य॒ज्ञाना॑म् । होता॑ । विश्वे॑षाम् । हि॒तः ।
दे॒वेभिः॑ । मानु॑षे । जने॑ ॥

सायणभाष्यम्

हेअग्ने त्वं विश्वेषां सर्वेषां सप्तसंस्थारूपेणभिन्नानांयज्ञानांहोता होमनिष्पादकोसि यद्वा यज्ञानांसंबन्धीदेवानामाह्वाताभवसि कुतइत्यतआह यस्मात्त्वं मानुषे मनोःसंबन्धिनिमनुष्ये जने यजमाने देवेभिर्देवैः हितः होतृत्वेननिहितोसि तस्मादित्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१