मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४

संहिता

त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभि॑ः शु॒नम् ।
ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥

पदपाठः

त्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् ।
ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥

सायणभाष्यम्

हेअग्ने त्वांभरतः दौष्षंतिः एतत्संज्ञोराजा वाजिभिः वाजोहविर्लक्षणमन्नंतद्वद्भिरृत्विग्भिःसह द्विता द्विविधं इष्टप्राप्त्यनिष्टपरिहार- रूपेणद्विधाभिन्नं शुनं सुखमुद्दिश्य ईळे स्तुतवान् स्तुत्वाच यज्ञियं यज्ञार्हं त्वां यज्ञेषु तृतीयार्थेसप्तमी यज्ञैः ईजे इष्टवान् तस्मैत्वमुभयविधं- सुखंप्रादाइत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१