मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ५

संहिता

त्वमि॒मा वार्या॑ पु॒रु दिवो॑दासाय सुन्व॒ते ।
भ॒रद्वा॑जाय दा॒शुषे॑ ॥

पदपाठः

त्वम् । इ॒मा । वार्या॑ । पु॒रु । दिवः॑ऽदासाय । सु॒न्व॒ते ।
भ॒रत्ऽवा॑जाय । दा॒शुषे॑ ॥

सायणभाष्यम्

हेअग्ने त्वं इमा इमानि दृश्यमानानि पुरु पुरूणि बहूनि वार्या वार्याणिवरणीयानिसंभजनीयानिधनानि दिवोदासाय सुन्वते लुप्तो- पममेतत् यथासोमाभिषवंकुर्वतेदिवोदासाख्यायराज्ञे प्रादाः तथा दाशुषे हवींषिदत्तवतेभरद्वाजायऋषये देहीतिशेषः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१