मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ६

संहिता

त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् ।
शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥

पदपाठः

त्वम् । दू॒तः । अम॑र्त्यः । आ । व॒ह॒ । दैव्य॑म् । जन॑म् ।
शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

अमर्त्योमरणधर्मस्त्वं दूतोभूत्वा दैव्यं देवसंबन्धिनंजनमावह अस्मद्यज्ञे आनय किंकुर्वन् विप्रस्य मेधाविनोभरद्वाजस्य सुष्टुतिं शोभ- नांस्तुतिंशृण्वन् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२