मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ८

संहिता

तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं॑ सु॒दान॑वः ।
विश्वे॑ जुषन्त का॒मिनः॑ ॥

पदपाठः

तव॑ । प्र । य॒क्षि॒ । स॒म्ऽदृश॑म् । उ॒त । क्रतु॑म् । सु॒ऽदान॑वः ।
विश्वे॑ । जु॒ष॒न्त॒ । का॒मिनः॑ ॥

सायणभाष्यम्

हेअग्ने तव संदृशं सम्यक्दर्शनीयं यद्वा सम्यग्द्रष्टारं सर्वस्यभासकंतेजः प्रयक्षि प्रयक्षे प्रकर्षेणपूजयामि उतापिच सुदानवः सुदानोः शोभनदानस्य तव क्रतुं कर्म प्रज्ञानंवा पूजयामि नकेवलमहगेव किंतु अन्येविश्वेसर्वेपि यजमानाः कामिनः त्वदनुग्रहात्तैस्तैःकामैरुपेताः सन्तः जुषन्त त्वदीयंसंदृशंक्रतुंचसेवन्ते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२