मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ९

संहिता

त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।
अग्ने॒ यक्षि॑ दि॒वो विशः॑ ॥

पदपाठः

त्वम् । होता॑ । मनुः॑ऽहितः । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।
अग्ने॑ । यक्षि॑ । दि॒वः । विशः॑ ॥

सायणभाष्यम्

हेअग्ने त्वंहोता होतृत्वेन मनुर्हितः मनुनाआहितोसि आसा आस्येन आस्यभूतयाज्वालया वह्निर्हविषांवोढा विदुष्टरः अतिशयेनवि- द्वान् अतःकारणात् त्वं दिवः द्युलोकसंबन्धिनीः विशः दैवीःप्रजाः यक्षि यज ॥ ९ ॥ दर्शपूर्णमासयोःसामिधेनीषु अग्न्आयाहीत्याद्यास्तिस्रः सूत्रितंच—अग्नआयाहिवीतयेगृणानईळेन्योनमस्यस्तिरइति । गार्हपत्याहव- नीययोर्मिथःसंसर्गे अग्नयेवीतयेष्टाकपालःपुरोडाशः तस्याग्नआयाहीत्येषानुवाक्या सूत्रितंच—अग्नआयाहिवीतयेयोअग्निंदेववीतयइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२