मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ११

संहिता

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि ।
बृ॒हच्छो॑चा यविष्ठ्य ॥

पदपाठः

तम् । त्वा॒ । स॒मित्ऽभिः॑ । अ॒ङ्गि॒रः॒ । घृ॒तेन॑ । व॒र्ध॒या॒म॒सि॒ ।
बृ॒हत् । शो॒च॒ । य॒वि॒ष्ठ्य॒ ॥

सायणभाष्यम्

हेअङ्गिरः अङ्गनादिगुणयुक्त अङ्गाररूपवा अङ्गिरसःपुत्रवाग्ने तं पूर्वोक्तगुणं त्वा त्वां समिद्भिः समिन्धनहेतुभिर्दारुभिः घृतेना- ज्येनच वर्धयामसि वर्धयामः अतोहेयविष्ठ्य युवतमाग्ने बृहत् महत् अत्यन्तं शोच दीप्यस्व ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३