मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १२

संहिता

स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा॑ देव विवाससि ।
बृ॒हद॑ग्ने सु॒वीर्य॑म् ॥

पदपाठः

सः । नः॒ । पृ॒थु । श्र॒वाय्य॑म् । अच्छ॑ । दे॒व॒ । वि॒वा॒स॒सि॒ ।
बृ॒हत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हेदेव द्योतमानाग्ने सपूर्वेक्तगुणस्त्वं पृथु विस्तीर्णं श्रवाय्यं श्रवणीयं प्रशस्यं बृहन्महत् सुवीर्यं शोभनवीर्योपेतं धनं नोस्मानच्छविवा- ससि अभिगमय अत्रवाजसनेयकं—अच्छादेवविवाससीति तन्नोगमयेत्येवैतदाहेति ॥ १२ ॥ अग्निमंथनेत्वामग्नेपुष्करादधीत्याद्यास्तिस्रऋचोनूच्याः सूत्रितंच—त्वामग्नेपुष्करादधीतितिसृणामर्धर्चंशिष्टारमेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३