मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १४

संहिता

तमु॑ त्वा द॒ध्यङ्ङृषि॑ः पु॒त्र ई॑धे॒ अथ॑र्वणः ।
वृ॒त्र॒हणं॑ पुरंद॒रम् ॥

पदपाठः

तम् । ऊं॒ इति॑ । त्वा॒ । द॒ध्यङ् । ऋषिः॑ । पु॒त्रः । ई॒धे॒ । अथ॑र्वणः ।
वृ॒त्र॒ऽहन॑म् । पु॒र॒म्ऽद॒रम् ॥

सायणभाष्यम्

हेअग्ने यउक्तगुणः तमु तमेव त्वामथर्वणःपुत्रोदध्यङ्एतत्संज्ञऋषिः ईधेदीपितवान् कीदृशं वृत्रहणं आवरकाणांशत्रूणांहन्तारं पुरंदरं असुरपुराणांदारयितारम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३