मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १६

संहिता

एह्यू॒ षु ब्रवा॑णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ ।
ए॒भिर्व॑र्धास॒ इन्दु॑भिः ॥

पदपाठः

आ । इ॒हि॒ । ऊं॒ इति॑ । सु । ब्रवा॑णि । ते॒ । अग्ने॑ । इ॒त्था । इत॑राः । गिरः॑ ।
ए॒भिः । व॒र्धा॒से॒ । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हेअग्ने एहि आगच्छ ते तुभ्यं त्वदर्थं गिरःस्तुतीः इत्था इत्थमनेनप्रकारेण सु सुष्ठु ब्रवाणीत्यशास्यते ताःस्तुतीः श्रृण्वित्यर्थः उइत्येत- त्पूरकं इतराः असुरैः कृताःस्तुतीः शृण्वितिशेषः तथा चब्राह्मणं—अग्निरित्थेतरागिरइत्यसुर्याहवाइतरागिरइति । अपिचआगतस्त्वं एभिरेतैः इन्दुभिः सोमैः वर्धसे वर्धस्व ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४