मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १७

संहिता

यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् ।
तत्रा॒ सदः॑ कृणवसे ॥

पदपाठः

यत्र॑ । क्व॑ । च॒ । ते॒ । मनः॑ । दक्ष॑म् । द॒ध॒से॒ । उत्ऽत॑रम् ।
तत्र॑ । सदः॑ । कृ॒ण॒व॒से॒ ॥

सायणभाष्यम्

हेअग्ने ते तव मनः अनुग्रहात्मकमन्तः करणं यत्र य्स्मिन्देशे क्वच कस्मिंश्चिद्यजमानेवर्तते तत्र तस्मिन्यजमाने उत्तरमुद्धततरं श्रेष्ठं दक्षं बलं बलकरमन्नंवा दधसे धारयसि तथा सदः स्थानंच कृणवसे तस्मिन्यजमानेकरोषि ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४