मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १८

संहिता

न॒हि ते॑ पू॒र्तम॑क्षि॒पद्भुव॑न्नेमानां वसो ।
अथा॒ दुवो॑ वनवसे ॥

पदपाठः

न॒हि । ते॒ । पू॒र्तम् । अ॒क्षि॒ऽपत् । भुव॑त् । ने॒मा॒ना॒म् । व॒सो॒ इति॑ ।
अथ॑ । दुवः॑ । व॒न॒व॒से॒ ॥

सायणभाष्यम्

हेअग्ने तेत्वदीयं पूर्तं पूरकं तेजः अक्षिपत् अक्ष्णोःपातकं विनाशकं नहिभुवत् नभवतु सर्वदास्माकं दर्शनसामर्थ्यंकरोतु हेनेमानांवसो नेमशब्दःअल्पवाची मनुष्याणांमध्येकतिपयानां यजमानानांवासक अथ अतःकारणात् दुवः अस्माभिर्यजमानैःकृतंपरिचरणं वनवसे संभजस्व ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४