मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् १९

संहिता

आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः ।
दिवो॑दासस्य॒ सत्प॑तिः ॥

पदपाठः

आ । अ॒ग्निः । अ॒गा॒मि॒ । भार॑तः । वृ॒त्र॒ऽहा । पु॒रु॒ऽचेत॑नः ।
दिवः॑ऽदासस्य । सत्ऽप॑तिः ॥

सायणभाष्यम्

अयमग्निः आ अगामि अस्माभिःस्तुतिभिरभ्यगम्यत कीदृशःभारतः हविषांभर्ता दिवोदासस्य एतत्संज्ञस्यराज्ञः वृत्रहा वृत्राणां- शत्रूणांहन्ता पुरुचेतनः पुरूणांबहुनांचेतयिताज्ञाता सर्वज्ञइत्यर्थः सत्पतिः सतांयजमानानांपालयिता ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४