मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २०

संहिता

स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश॑न्महित्व॒ना ।
व॒न्वन्नवा॑तो॒ अस्तृ॑तः ॥

पदपाठः

सः । हि । विश्वा॑ । अति॑ । पार्थि॑वा । र॒यिम् । दाश॑त् । म॒हि॒ऽत्व॒ना ।
व॒न्वन् । अवा॑तः । अस्तृ॑तः ॥

सायणभाष्यम्

सहि सखल्वग्निः विश्वा विश्वानिसर्वाणि पार्थिवा पृथिव्यांभवानिभूतजातानि महित्वना महत्त्वेनस्वमहिम्ना अतिक्रामन् रयिं धनं दाशत् अस्मभ्यंददातु यद्वा विश्वं सर्वं पार्थिवं पृथिव्यां विद्यमानंधनं अतिशयेन दाशद्ददातु कीदृशोग्निः महित्वना महत्त्वेनतेजसा वन्वन् काष्ठानिशत्रून् वाहिंसन् अवातः अन्यैःशत्रुभिरप्रतिगतः अस्तृतः केनाप्यहिंसितः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४