मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २१

संहिता

स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ ।
बृ॒हत्त॑तन्थ भा॒नुना॑ ॥

पदपाठः

सः । प्र॒त्न॒ऽवत् । नवी॑यसा । अग्ने॑ । द्यु॒म्नेन॑ । स॒म्ऽयता॑ ।
बृ॒हत् । त॒त॒न्थ॒ । भा॒नुना॑ ॥

सायणभाष्यम्

हेअग्ने यःपूर्वोक्तगुणविशिष्टः सतादृशस्त्वं प्रत्नवत् प्रत्नेनपुराणेन नवीयसा नवतरेण द्युम्नेनद्योतमानेन संयता संगच्छता सम्यग्व्याप्नु- वता भानुना तेजसा बृहन्महदन्तरिक्षं ततन्थ विस्तारयसि ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५