मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २२

संहिता

प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
अर्च॒ गाय॑ च वे॒धसे॑ ॥

पदपाठः

प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये॑ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया ।
अर्च॑ । गाय॑ । च॒ । वे॒धसे॑ ॥

सायणभाष्यम्

हेसखायः समानख्यानाः ऋत्विजः वोयूयं धृष्णुया शत्रूणांधर्षकाय वेधसे विधात्रे अग्नये स्तोमं स्तोत्रं गाय गायत तथा यज्ञं यजनसा- धनं हविश्च प्रार्च प्रयच्छ ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५