मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २३

संहिता

स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः ।
दू॒तश्च॑ हव्य॒वाह॑नः ॥

पदपाठः

सः । हि । यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ । क॒विऽक्र॑तुः ।
दू॒तः । च॒ । ह॒व्य॒ऽवाह॑नः ॥

सायणभाष्यम्

सहि सखल्वग्निः सीदत् सीदतु अस्मदीयेयज्ञे बर्हिष्युपविशतु योग्निःहोता देवानामाह्वाता कविक्रतुः क्रान्तप्रज्ञः मानुषायुगा मानुषा- णियुगानिमनुष्यसंबन्धिनोयज्ञार्हान् कालविशेषान् येषुयागाअनुष्ठीयन्ते अत्यन्तसंयोगेद्वितीया एतावन्तंकालं देवानांदूतः सहव्यवाहनो- हविषांवोढाचभवति ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५