मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २४

संहिता

ता राजा॑ना॒ शुचि॑व्रतादि॒त्यान्मारु॑तं ग॒णम् ।
वसो॒ यक्षी॒ह रोद॑सी ॥

पदपाठः

ता । राजा॑ना । शुचि॑ऽव्रता । आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ।
वसो॒ इति॑ । यक्षि॑ । इ॒ह । रोद॑सी॒ इति॑ ॥

सायणभाष्यम्

ता तौ प्रसिद्धौ राजाना राजमानौ शुचिव्रता शुचिकर्माणौ मित्रावरुणौ आदित्यानदितेःपुत्रान् धात्रादीन् मारुतंगणं मरुतांसंघंच रोदसी द्यावापृथिव्यौच एतान् देवान् हेवसो वासकाग्ने इहास्मिन् यज्ञे यक्षि यज ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५