मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २५

संहिता

वस्वी॑ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या॑य ।
ऊर्जो॑ नपाद॒मृत॑स्य ॥

पदपाठः

वस्वी॑ । ते॒ । अ॒ग्ने॒ । सम्ऽदृ॑ष्टिः । इ॒ष॒ऽय॒ते । मर्त्या॑य ।
ऊर्जः॑ । न॒पा॒त् । अ॒मृत॑स्य ॥

सायणभाष्यम्

हेऊर्जोनपात् बलस्यपुत्राग्ने अमृतस्य मरणरहितस्य ते तव संदृष्टिः दीप्तिः वस्वीवासयित्री प्रशस्येत्यर्थः सा मर्त्याय मनुष्याय यजमा- नाय इषयते इषमन्नमिच्छति ददातीत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५