मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २७

संहिता

ते ते॑ अग्ने॒ त्वोता॑ इ॒षय॑न्तो॒ विश्व॒मायु॑ः ।
तर॑न्तो अ॒र्यो अरा॑तीर्व॒न्वन्तो॑ अ॒र्यो अरा॑तीः ॥

पदपाठः

ते । ते॒ । अ॒ग्ने॒ । त्वाऽऊ॑ताः । इ॒षय॑न्तः । विश्व॑म् । आयुः॑ ।
तर॑न्तः । अ॒र्यः । अरा॑तीः । व॒न्वन्तः॑ । अ॒र्यः । अरा॑तीः ॥

सायणभाष्यम्

हेअग्ने ते त्वदीयाः ये त्वांस्तुवन्ति ते स्तोतारः त्वोतास्त्वयाऊतारक्षिताः अतएव इषयन्तः इषमात्मनइच्छन्तः सन्तः विश्वं सर्वं आयुरन्नं लभन्तइतिशेषः आयुरेववाशतवर्षलक्षणमिषयन्तः इच्छन्तः प्राप्नुवन्तीतिशेषः तथाअर्यः अरातीरभिगन्त्रीःअरातीः काश्चिच्छ- त्रुसेनाः तरन्तः अतिक्रामन्तः अर्योभिगन्त्रीः अरातीः काश्चनशत्रुसेनाः वन्वन्तोहिंसंतश्च भवन्तीतिशेषः ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६