मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् २९

संहिता

सु॒वीरं॑ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
ज॒हि रक्षां॑सि सुक्रतो ॥

पदपाठः

सु॒ऽवीर॑म् । र॒यिम् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।
ज॒हि । रक्षां॑सि । सु॒ऽक्र॒तो॒ इति॑ सुऽक्रतो ॥

सायणभाष्यम्

हेजातवेदः जातप्रज्ञान जातधनवा विचर्षणे विशेषेणद्रष्टरग्ने सुवीरं शोभनैःवीरैः पुत्रपौत्रादिभिरुपेतं रयिं धनं आभर आहर तथा हेसुक्रतो सुकर्मन्नग्ने रक्षांसिच जहि विनाशय ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६