मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३०

संहिता

त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः ।
रक्षा॑ णो ब्रह्मणस्कवे ॥

पदपाठः

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । जात॑ऽवेदः । अ॒घ॒ऽय॒तः ।
रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥

सायणभाष्यम्

हेजातवेदस्त्वन्नोस्मान् अंहसः पापात् पाहि रक्ष तथा हेब्रह्मणस्कवे स्तुतिरूपस्यमंत्रस्यकवे कावयितः शब्दयितरग्ने अग्निर्हिशब्दमु- त्पादयति तथाच स्मर्यते—मनःकायाग्निमाहन्तिसप्रेरयतिमारुतम् । मारुतस्तूरसिचरन् मन्द्रंजनयतिस्वरमिति । तादृशाग्ने अघायतः अघमनर्थं अस्माकमिच्छतः शत्रोश्च नोस्मान्त्रक्ष ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६