मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३१

संहिता

यो नो॑ अग्ने दु॒रेव॒ आ मर्तो॑ व॒धाय॒ दाश॑ति ।
तस्मा॑न्नः पा॒ह्यंह॑सः ॥

पदपाठः

यः । नः॒ । अ॒ग्ने॒ । दुः॒ऽएवः॑ । आ । मर्तः॑ । व॒धाय॑ । दाश॑ति ।
तस्मा॑त् । नः॒ । पा॒हि॒ । अंह॑सः ॥

सायणभाष्यम्

हेअग्ने दुरेवोदुष्टाभिप्रायोमर्तोमनुष्यः वधाय स्वस्ययुधाय नोस्मान् आदाशति अभिप्रयच्छति आयुधेनास्मान् हन्तीत्यर्थः तस्मान्म- नष्यात् अंहसः पापाच्च नोस्मान्पाहिरक्षा ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७