मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३२

संहिता

त्वं तं दे॑व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत॑म् ।
मर्तो॒ यो नो॒ जिघां॑सति ॥

पदपाठः

त्वम् । तम् । दे॒व॒ । जि॒ह्वया॑ । परि॑ । बा॒ध॒स्व॒ । दुः॒ऽकृत॑म् ।
मर्तः॑ । यः । नः॒ । जिघां॑सति ॥

सायणभाष्यम्

हेदेव द्योतमानाग्ने त्वं तं वक्ष्यमाणं दुष्कृतं दुष्कर्मकारिणंमनुष्यं जिह्वया ज्वालया परिबाधस्व सर्वतोजहि योमर्तोमनुष्यः नोस्मान् जिघांसति हन्तुमिच्छति ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७