मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३३

संहिता

भ॒रद्वा॑जाय स॒प्रथ॒ः शर्म॑ यच्छ सहन्त्य ।
अग्ने॒ वरे॑ण्यं॒ वसु॑ ॥

पदपाठः

भ॒रत्ऽवा॑जाय । स॒ऽप्रथः॑ । शर्म॑ । य॒च्छ॒ । स॒ह॒न्त्य॒ ।
अग्ने॑ । वरे॑ण्यम् । वसु॑ ॥

सायणभाष्यम्

हेसहन्त्य शत्रूणामभिभवितरग्ने भरद्वाजायमह्यमृषये सप्रथः सर्वतःपृथुविस्तीर्णं शर्म सुखं गृहंवा यच्छ देहि तथावरेण्यं वरणीयं वसु धनंच देहि ॥ ३३ ॥ पौर्णमास्यामाग्नेयाज्यभागस्यानुवाक्याअग्निर्वृत्राणीत्येषा सूत्रितंच—अग्निर्वृत्राणीजंघनदितिपूर्वस्याज्यभागस्यानुवाक्येइति । इष्टि- पशुसोमेषुच यत्र वृधन्वन्तौ पुष्टिमन्तावित्यादिविशेषविधिर्नदृश्यते तत्र सर्वत्र एषैवप्रथमाज्यभागानुवाक्या उपसद्याग्नेयस्यैषानुवाक्या सायंकालीनस्यतु एषैवयाज्या सूत्रितंच—अग्निर्वृत्राणिजंघनद्यउग्रइवशर्यहेति विपर्यासोयाज्यानुवाक्यानामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७