मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३४

संहिता

अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धः शु॒क्र आहु॑तः ॥

पदपाठः

अ॒ग्निः । वृ॒त्राणि॑ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया॑ ।
सम्ऽइ॑द्धः । शु॒क्रः । आऽहु॑तः ॥

सायणभाष्यम्

विपन्यया स्तुत्या स्तूयमानः द्रविणस्युर्द्रविणंधनंस्तोतॄणांइच्छन् यद्वा हविर्लक्षणं धनमात्मनइच्छन् अग्निर्वृत्राण्यावरकाणि रक्षःप्रभृतीनि तमांसिवाजंघनत् भृशंहन्तु कीदृशोग्निः समिद्धः सम्यग्दीप्तः अतएव शुक्रः शुक्लवर्णः आहुतः हविर्भिरभिहुतः ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७