मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३६

संहिता

ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे ।
अग्ने॒ यद्दी॒दय॑द्दि॒वि ॥

पदपाठः

ब्रह्म॑ । प्र॒जाऽव॑त् । आ । भ॒र॒ । जात॑ऽवेदः । विऽच॑र्षणे ।
अग्ने॑ । यत् । दी॒दय॑त् । दि॒वि ॥

सायणभाष्यम्

हेजातवेदः जातानांवेदितः विचर्षणे विशेषेणद्रष्टरग्ने प्रजावत् पुत्रपौत्रसहितंब्रह्मान्नमाभर आहर यद्ब्रह्म दिविद्युलोके दीदय- द्दीप्यते देवेषुमध्येयत्प्रशस्तमन्नं राजते तदाहरेत्यर्थः ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८