मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३७

संहिता

उप॑ त्वा र॒ण्वसं॑दृशं॒ प्रय॑स्वन्तः सहस्कृत ।
अग्ने॑ ससृ॒ज्महे॒ गिरः॑ ॥

पदपाठः

उप॑ । त्वा॒ । र॒ण्वऽस॑न्दृशम् । प्रय॑स्वन्तः । स॒हः॒ऽकृ॒त॒ ।
अग्ने॑ । स॒सृ॒ज्महे॑ । गिरः॑ ॥

सायणभाष्यम्

हेसहस्कृत सहसा बलेनोत्पन्नाग्ने प्रयस्वन्तःहविर्लक्षणान्नवन्तोवयं रण्वसन्दृशं रमणीयसंर्शनंस्तोतव्यसंदर्शनंर्शनंवात्वा त्वां उप प्रति गिरः स्तुतीः ससृज्महे विसृजामः उच्चारयामइत्यर्थः ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८