मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३८

संहिता

उप॑ च्छा॒यामि॑व॒ घृणे॒रग॑न्म॒ शर्म॑ ते व॒यम् ।
अग्ने॒ हिर॑ण्यसंदृशः ॥

पदपाठः

उप॑ । छा॒याम्ऽइ॑व । घृणेः॑ । अग॑न्म । शर्म॑ । ते॒ । व॒यम् ।
अग्ने॑ । हिर॑ण्यऽसन्दृशः ॥

सायणभाष्यम्

हेअग्ने हिरण्यसंदृशः हितरणीयतेजसः हिरण्यवत् रोचमानतेजसोवा घृणेर्दीप्तस्य ते तव शर्म शरणं आश्रयणं उपागन्म उपगच्छाम तत्रदृष्टान्तः छायामिव यथाघर्मार्ताः संतप्ताः छायामुपगच्छन्ति तद्वत् ॥ ३८ ॥ उपस दिप्रातः कालस्याग्नेयस्ययउग्रइवेतियाज्या सायंकालीनस्यत्वैषैवानुवाक्या सूत्रितंच—अग्निर्वृत्राणिजंघनद्यउग्रइवशर्यहेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८