मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ३९

संहिता

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वंस॑गः ।
अग्ने॒ पुरो॑ रु॒रोजि॑थ ॥

पदपाठः

यः । उ॒ग्रःऽइ॑व । श॒र्य॒ऽहा । ति॒ग्मऽशृ॑ङ्गः । न । वंस॑गः ।
अग्ने॑ । पुरः॑ । रु॒रोजि॑थ ॥

सायणभाष्यम्

योग्निः उग्रइव उद्गीर्णबलोधन्वीव शर्यहा शर्यैर्बाणैः शत्रूणांहन्ता तिग्मशृंगोनवंसगः तीक्ष्णशृंगोवननीयगतिर्वृषभइव हेअग्ने सत्वं पुरः आसुरीस्तिस्रःपुरीः रुरोजिथ भग्नवानसि रुद्रोवाएषयदग्निरितिश्रुतेः । रुद्रकृतमपित्रिपुरदहनं अग्निकृतमेवेत्यग्निःस्तूयते यद्वा त्रिपुरदहन- साधनभूतेबाणे अग्नेरनीकत्वेनावस्थानात् अग्निःपुराणिभग्नवानित्युच्यते देवासुरावाएषुलोकेषुसमयतंतेत्यादिकंब्राह्मणमनुसन्धेयं ॥ ३९ ॥ अग्निमन्थनेजायमानेग्नौ आयंहस्तइत्येषानुवाक्या सूत्रितंच—आयंहस्तेनखादिनमित्यर्धर्चआरमेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८