आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति ।
वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥
आ । यम् । हस्ते॑ । न । खा॒दिन॑म् । शिशु॑म् । जा॒तम् । न । बिभ्र॑ति ।
वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥
मन्थनोत्पन्नंयमग्निं शिशुंजातंन जातंपुत्रमिव हस्तेआ बिभ्रति हस्तेष्वभिमुखंधारयन्त्यध्वर्यवः पूर्वोनशब्दः पुरस्तादुपचारोप्युपमा- र्थीयः खादिनंन भक्षकंव्याघ्रादिमिव यथा तंबिभ्रतः पुरुषाअवहिताः तथाभूताइत्यर्थः यद्वा नेतिसंप्रत्यर्थे संप्रतीदानीं खादिनं हविषां- भक्षकं यमग्निंहस्तेधारयन्ति विशां जनानां स्वध्वरं शोभनयागस्यनिष्पादकं तमग्निं हेऋत्विजः परिचरतेतिशेषः ॥ ४० ॥ अग्निमन्थनेजातस्याग्नेआहवनीयेप्रहरणसमयेप्रदेवंदेववीतयइतिद्वृचोनुवक्तव्यः सूत्रितंच—प्रदेवंदेववीतयइतिद्वेअग्निनाग्निःसमिध्य- तइति ।