मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४१

संहिता

प्र दे॒वं दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।
आ स्वे योनौ॒ नि षी॑दतु ॥

पदपाठः

प्र । दे॒वम् । दे॒वऽवी॑तये । भर॑त । व॒सु॒वित्ऽत॑मम् ।
आ । स्वे । योनौ॑ । नि । सी॒द॒तु॒ ॥

सायणभाष्यम्

हेअध्वर्यवः देवं द्योतमानं वसुवित्तमं वसूनां धनानां वेदयितारं लंभयितारमग्निं प्रभरत प्रहरत आहवनीयेग्नौ प्रक्षिपत किमर्थं देव- वीतये देवानांभक्षणार्थं तथाचब्राह्मणं—प्रदेवंदेववीतयेभरतावसुवित्तममितिप्रह्रियमाणायाभिरूपायद्यज्ञेभिरूपंतत्समृद्धमास्वेयोनौनि- षीदत्वित्येषहवाअस्यस्वोयोनिर्यदग्निरग्नेरिति । सचाग्निः स्वेयोनौ कारणे स्थाने आहवनीयेआनिसीदतु अभीनिषण्णोभवतु ब्राह्मणंच- भवति—एषवाअस्यस्वोयोनिर्यदग्निरग्नेरिति ॥ ४१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९