मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४२

संहिता

आ जा॒तं जा॒तवे॑दसि प्रि॒यं शि॑शी॒ताति॑थिम् ।
स्यो॒न आ गृ॒हप॑तिम् ॥

पदपाठः

आ । जा॒तम् । जा॒तऽवे॑दसि । प्रि॒यम् । शि॒शी॒त॒ । अति॑थिम् ।
स्यो॒ने । आ । गृ॒हऽप॑तिम् ॥

सायणभाष्यम्

हेअध्वर्यवः जातं प्रादुर्भूतमतिथिं लुप्तोपममेतत् अतिथिमिवप्रियं अतएव गृहपतिं गृहाणांस्वामिनमग्निं जातवेदसि जातप्रज्ञे स्योने सुखकरे आहवनीयेग्नौ आशिशीत अन्तर्णीतण्यर्थस्यशीङएतद्रूपं शाययत स्थापयत यद्वा श्यैङ्गतावित्यस्यछान्दसंरूपं गमयत प्रापयते- त्यर्थः शोतनूकरणेइत्यस्यवारूपं श्यत तीक्ष्णीकुरुतसंस्कुरुत प्रहरतेतियावत् द्वीतीयआकारःपूरकः जातइतरोजातवेदाइतरइत्यादिकंब्रा- ह्मणमत्रानुसन्धेयम् ॥ ४२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९