मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४५

संहिता

उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् ।
शोचा॒ वि भा॑ह्यजर ॥

पदपाठः

उत् । अ॒ग्ने॒ । भा॒र॒त॒ । द्यु॒ऽमत् । अज॑स्रेण । दवि॑द्युतत् ।
शोच॑ । वि । भा॒हि॒ । अ॒ज॒र॒ ॥

सायणभाष्यम्

हेभारत हविषांभर्तग्ने उच्छोच उद्गततरंदीप्यस्व तदेवविवृणोति हेअजर जरारहिताग्ने दविद्युतत् भृशंद्योतमानस्त्वं द्युमत् द्युमता- दीप्तिमता सुपांसुलुगितितृतीयायालुक् अजस्रेणाविच्छेदेनतेजसा विभाहि विशेषेणप्रकाशयस्व यद्वा भातिरत्रांतर्णीतण्यर्थः त्वं प्रथममु- द्दीप्यस्व पश्चादात्मीयेनतेजसा सर्वंजगत्प्रकाशयेतियोजनीयम् ॥ ४५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९