मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४६

संहिता

वी॒ती यो दे॒वं मर्तो॑ दुव॒स्येद॒ग्निमी॑ळीताध्व॒रे ह॒विष्मा॑न् ।
होता॑रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ॥

पदपाठः

वी॒ती । यः । दे॒वम् । मर्तः॑ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा॑न् ।
होता॑रम् । स॒त्य॒ऽयज॑म् । रोद॑स्योः । उ॒त्ता॒नऽह॑स्तः । नम॑सा । आ । वि॒वा॒से॒त् ॥

सायणभाष्यम्

योमर्तोमनुष्योहविष्मान् हविर्भिर्युक्तोयजमानोवीती वीत्याकान्तेन हविर्लक्षणेनान्नेन यंकंचनदेवं दुवस्येत् परिचरेत् तस्मिन्नध्वरे यज्ञे अग्निमीळीत स्तुवीत सर्वेषुयागेष्वग्निः पूज्यतइत्यर्थः कीदृशमग्निं रोदस्योर्द्यावापृथिव्योर्लोकद्वये वर्तमानानांहोतारमाह्वातारं सत्य- यजं सत्येन अवितथेनहविषा यष्टारं किंचायंयजमानः ईदृशमग्निं उत्तानहस्तः कृतांजलिपुटः सन् नमसा नमस्कारेण हविषावा आविवा- सेत् परिचरेत् ॥ ४६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०