मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १६, ऋक् ४७

संहिता

आ ते॑ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि ।
ते ते॑ भवन्तू॒क्षण॑ ऋष॒भासो॑ व॒शा उ॒त ॥

पदपाठः

आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । हृ॒दा । त॒ष्टम् । भ॒रा॒म॒सि॒ ।
ते । ते॒ । भ॒व॒न्तु॒ । उ॒क्षणः॑ । ऋ॒ष॒भासः॑ । व॒शाः । उ॒त ॥

सायणभाष्यम्

अनयाध्ययनंप्रशस्यतइत्याश्वलायनोमन्यते हेअग्ने तेतुभ्यंहृदा हृदयेन तष्टं संस्कृतं ऋचा ऋग्रूपेणवर्तमानं हविः ऋचमेवहविःकृत्वा आभरामसि आहरामः तेइतितच्छब्देन प्रकृतमृग्रूपंहविःपरामृश्यते प्रतिनिर्दिश्यमानापेक्षयापुंस्त्वबहुत्वे ऋग्रूपंतद्धविः ते तुभ्यं उक्षणः उक्षाणः सेचनसमर्थाः ऋषभासः ऋषभाः उतापिच वशाश्चभवन्तु ऋषभवशारूपेणपरिणतंसत् त्वद्भक्षणाय भवत्वितिशेषः ॥ ४७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०