मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् २

संहिता

स ईं॑ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् ।
यो गो॑त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ॑न्द्र चि॒त्राँ अ॒भि तृ॑न्धि॒ वाजा॑न् ॥

पदपाठः

सः । ई॒म् । पा॒हि॒ । यः । ऋ॒जी॒षी । तरु॑त्रः । यः । शिप्र॑ऽवान् । वृ॒ष॒भः । यः । म॒ती॒नाम् ।
यः । गो॒त्र॒ऽभित् । व॒ज्र॒ऽभृत् । यः । ह॒रि॒ऽस्थाः । सः । इ॒न्द्र॒ । चि॒त्रान् । अ॒भि । तृ॒न्धि॒ । वाजा॑न् ॥

सायणभाष्यम्

हेइन्द्र ऋजीषी ऋजीषशब्देनगतरसःसोमोभिधीयते तद्वान् यस्त्वं तरुत्रः शत्रूणांतारकोसि यस्त्वं शिप्रवान् शोभनहनुरसि यस्त्वं मतीनां स्तोतॄणां मन्यतेःस्तुतिकर्मणःकर्तरिक्तिच् वृषभः कामानांवर्षितासि सत्वं ईं एनं सोमं पाहि पिब हेइन्द्र यस्त्वं वज्रभृत् वज्रधरो- यस्त्वंगोत्रभित् गोत्राणांपर्वतानांमेघानांवाभेत्तासि यस्त्वं हरिष्ठाः हर्योःस्थातासि हेइन्द्र सत्वं चित्रान् विचित्रान् वाजानन्नानि अभितृ- न्धि अस्मभ्यंप्रकाशय ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः