मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ३

संहिता

ए॒वा पा॑हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः ।
आ॒विः सूर्यं॑ कृणु॒हि पी॑पि॒हीषो॑ ज॒हि शत्रूँ॑र॒भि गा इ॑न्द्र तृन्धि ॥

पदपाठः

ए॒व । पा॒हि॒ । प्र॒त्नऽथा॑ । मन्द॑तु । त्वा॒ । श्रु॒धि । ब्रह्म॑ । व॒वृ॒धस्व॑ । उ॒त । गीः॒ऽभिः ।
आ॒विः । सूर्य॑म् । कृ॒णु॒हि । पी॒पि॒हि । इषः॑ । ज॒हि । शत्रू॑न् । अ॒भि । गाः । इ॒न्द्र॒ । तृ॒न्धि॒ ॥

सायणभाष्यम्

हेइन्द्रत्वं प्रत्नथा प्रत्नान्पुराणान्सोमान् यथाअपिबः तथा एवएवमिममस्मदीयंसोमं पाहि पिब सच सोमस्त्वयापीतःसन् त्वा त्वां म- न्दतु मदयतु ब्रह्म अस्माभिःकृतं स्तोत्रं श्रुधि श्रृणु उतापिच गीर्भिः स्तुतिरूपाभिर्वाग्भिर्ववृधस्व त्वंवर्धस्व अपिच सूर्यं सर्वस्यप्रेरकं देवं आविष्कृणुहि आविष्कुरु वयंसूर्यंयथापश्येम तथाकुर्वित्यर्थः इषः अन्नानिच पीपिहि अस्मभ्यंप्यायय शत्रूनस्मपत्नान् जहि नाशय हेइन्द्र त्वंपणिभिरपहृतागाः अभितृन्धि प्रकाशय ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः