मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ४

संहिता

ते त्वा॒ मदा॑ बृ॒हदि॑न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त॑म् ।
म॒हामनू॑नं त॒वसं॒ विभू॑तिं मत्स॒रासो॑ जर्हृषन्त प्र॒साह॑म् ॥

पदपाठः

ते । त्वा॒ । मदाः॑ । बृ॒हत् । इ॒न्द्र॒ । स्व॒धा॒ऽवः॒ । इ॒मे । पी॒ताः । उ॒क्ष॒य॒न्त॒ । द्यु॒ऽमन्त॑म् ।
म॒हाम् । अनू॑नम् । त॒वस॑म् । विऽभू॑तिम् । म॒त्स॒रासः॑ । ज॒र्हृ॒ष॒न्त॒ । प्र॒ऽसह॑म् ॥

सायणभाष्यम्

हेस्वधावः अन्नवन्निन्द्र मदाः मदकराः तइमेपीताःसोमाः द्युमन्तं दीप्तिमन्तं त्वा त्वां बृहदत्यन्तं उक्षयन्त सिंचयन्तु अपिच हेइन्द्र त्वां मत्सरासोमदकराः सोमाः जर्हृषन्त भृशंहर्षयन्तु कीदृशं महां महान्तं प्रभूतं अनूनं सर्वगुणैर्न्युनतारहितं संपूर्णमित्यर्थः तवसं प्रवृद्धं विभूतिं विभवन्तं प्रसाहं शत्रूणामभिभवितारं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः