मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ५

संहिता

येभि॒ः सूर्य॑मु॒षसं॑ मन्दसा॒नोऽवा॑स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् ।
म॒हामद्रिं॒ परि॒ गा इ॑न्द्र॒ सन्तं॑ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ॥

पदपाठः

येभिः॑ । सूर्य॑म् । उ॒षस॑म् । म॒न्द॒सा॒नः । अवा॑सयः । अप॑ । दृ॒ळ्हानि॑ । दर्द्र॑त् ।
म॒हाम् । अद्रि॑म् । परि॑ । गाः । इ॒न्द्र॒ । सन्त॑म् । नु॒त्थाः । अच्यु॑तम् । सद॑सः । परि॑ । स्वात् ॥

सायणभाष्यम्

हेइन्द्र येभिः यैः सोमैः मन्दसानोमोदमानस्त्वं सूर्यं सर्वस्वगोरकं देवं उषसमुषोदेवतांच अवासयः स्वस्थानेन्यवासयः अथवा सूर्योष- सौ यथा तमांसिविवासयतस्तथाकार्षीः किंकुर्वन् दृह्ळानि दृढानि तमांसि अपदर्द्रदपदारयन् किंच हेइन्द्र त्वं पणिभिरपहृतागाः परि- संतं परितोविद्यमानं महां महान्तं अद्रिं पर्वतं नुत्थाः अनुदः कीदृशं स्वात् स्वकीयात् सदसः स्थानात् परि परितः अच्युतं अविचालितं विनाशरहितं स्थिरमित्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः