मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ६

संहिता

तव॒ क्रत्वा॒ तव॒ तद्दं॒सना॑भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी॑धः ।
और्णो॒र्दुर॑ उ॒स्रिया॑भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ॥

पदपाठः

तव॑ । क्रत्वा॑ । तव॑ । तत् । दं॒सना॑भिः । आ॒मासु॑ । प॒क्वम् । शच्या॑ । नि । दी॒ध॒रिति॑ दीधः ।
और्णोः॑ । दुरः॑ । उ॒स्रिया॑भ्यः । वि । दृ॒ळ्हा । उत् । ऊ॒र्वात् । गाः । अ॒सृ॒जः॒ । अङ्गि॑रस्वान् ॥

सायणभाष्यम्

हेइन्द्र तवक्रत्वा त्वदीययाप्रज्ञया तवदंसनाभिः त्वदीयैःकर्मभिः शच्या सामर्थ्येन आमासु अपक्वासुगोषु पक्वं परिणतं तत्प्रसिद्धंपयः निदीधः नितरांधारयसिअपिच हेइन्द्र त्वं उस्त्रियाभ्योगोभ्यः गानिर्गमयितुमित्यर्थः दृह्ळा दृढानि बलेनपाषाणादिभिर्दृढीकृतानीत्यर्थः दुरोद्वाराणि व्यौर्णोः उद्घाटितवानसि अंगिरस्वान् अंगिरोभिर्युक्तरस्त्वं ऊर्वात् समूहात् गोष्ठादित्यर्थः गाः उदसृजः उदगमयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः