मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ७

संहिता

प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॒॑र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि॑न्द्र स्तभायः ।
अधा॑रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा॑ य॒ह्वी ऋ॒तस्य॑ ॥

पदपाठः

प॒प्राथ॑ । क्षाम् । महि॑ । दंसः॑ । वि । उ॒र्वीम् । उप॑ । द्याम् । ऋ॒ष्वः । बृ॒हत् । इ॒न्द्र॒ । स्त॒भा॒यः॒ ।
अधा॑रयः । रोद॑सी॒ इति॑ । दे॒वपु॑त्रे॒ इति॑ दे॒वऽपु॑त्रे । प्र॒त्ने इति॑ । मा॒तरा॑ । य॒ह्वी इति॑ । ऋ॒तस्य॑ ॥

सायणभाष्यम्

हेइन्द्र त्वं महि महता दंसः दंससा कर्मणा उर्वीं विस्तीर्णां क्षां भूमिं विपप्राथविशेषेण पूरितवानसि प्रापूरणेइतिधातुः हेइन्द्र ऋष्वो- महांस्त्वं बृहत् बृहतीं द्यां दिवं उपस्तभायः उपस्तभ्नासि निरालंबं वितिष्ठन्तीद्यौः यथानपतति इन्द्रस्तथाकारोतीत्यर्थः अपिच त्वं रोदसी द्यावापृथिव्यौ अधारयः षोषणैर्धारयसि कीदृश्यौ देवपुत्रे देवाःपुत्राययोस्ते प्रत्ने पुराणे मातरा मातरौनिर्मात्र्यौ ऋतस्योदकस्य यज्ञस्यवा यह्वी यह्व्यौमहत्यौ यद्वा विश्वस्यमातरौ ऋतस्य ब्रह्मणः यह्वी पुत्र्यौ यहुरित्यपत्यनामैतत् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः