मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् ११

संहिता

वर्धा॒न्यं विश्वे॑ म॒रुतः॑ स॒जोषा॒ः पच॑च्छ॒तं म॑हि॒षाँ इ॑न्द्र॒ तुभ्य॑म् ।
पू॒षा विष्णु॒स्त्रीणि॒ सरां॑सि धावन्वृत्र॒हणं॑ मदि॒रमं॒शुम॑स्मै ॥

पदपाठः

वर्धा॑न् । यम् । विश्वे॑ । म॒रुतः॑ । स॒ऽजोषाः॑ । पच॑त् । श॒तम् । म॒हि॒षान् । इ॒न्द्र॒ । तुभ्य॑म् ।
पू॒षा । विष्णुः॑ । त्रीणि॑ । सरां॑सि । धा॒व॒न् । वृ॒त्र॒ऽहन॑म् । म॒दि॒रम् । अं॒शुम् । अ॒स्मै॒ ॥

सायणभाष्यम्

सजोषाः सहप्रीयमाणाः विश्वे मरुतः सर्वेदेवाः हेइन्द्र यंत्वां वर्धान् स्तोत्रैर्वर्धयन्ति हेइन्द्र तस्मैतुभ्यं पूषा एतन्नामकोदेवः विष्णुरेत- न्नामकश्च शतं शतसंख्याकान् महिषान् पुंपशून् पचत् पचेत् अपिच अस्मै तुभ्यं सरांसि द्रोणकलशपूतभृदाहवनीयानित्रीणिपात्राणिपू- रयितुं अंशुं सोमं धावन् गच्छन् भवति पूषाविष्णुश्च सोमैः पात्राणि पूर्यंतइत्यर्थः कीदृशं सोमं मदिरं मदकरं बृत्रहणं वृत्राणांशत्रूणांह- न्तारं अत्र वृत्रहन् शब्देन सोमोभिधीयते पीतेहिसतिसोमे वृत्राणिहन्तुमिन्द्रः समर्थोभवतीतियावत् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः