मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् १२

संहिता

आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् ।
तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची॑र॒पसः॑ समु॒द्रम् ॥

पदपाठः

आ । क्षोदः॑ । महि॑ । वृ॒तम् । न॒दीना॑म् । परि॑ऽस्थितम् । अ॒सृ॒जः॒ । ऊ॒र्मिम् । अ॒पाम् ।
तासा॑म् । अनु॑ । प्र॒ऽवतः॑ । इ॒न्द्र॒ । पन्था॑म् । प्र । आ॒र्द॒यः॒ । नीचीः॑ । अ॒पसः॑ । स॒मु॒द्रम् ॥

सायणभाष्यम्

हेइन्द्र त्वं महि महत् वृतं वृत्रेण परिवृतमाच्छादितं परिष्ठितं परितःस्थितं नदीनां सिन्धूनां संबन्धि क्षोदः उदकं आअसृजः आसम- न्तात्सृष्टवानसि येननद्यःपूर्णाःप्रवहेयुःतदित्यर्थः अपामुदकानामूर्मिं समूहं सृष्टवानसि पुनर्वचनमादरार्थं हेइन्द्र तासांनदीनां संबन्धिनः पंथां पथोमार्गान्प्रवतःप्रवणानन्वकार्षीरितिशेषः अन्वित्युपसर्गयोग्यक्रियाध्याहारः किंच नीचीः प्रवणाभिमुखीर्वेगयुक्ताइत्यर्थः अपसो- पउदकानिअपसइत्यपएवार्थेवर्तते समुद्रमुदधिं प्रार्दयः प्रागमयः अत्रार्दयतिर्नयनकर्मा ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः