मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् १३

संहिता

ए॒वा ता विश्वा॑ चकृ॒वांस॒मिन्द्रं॑ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् ।
सु॒वीरं॑ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ॥

पदपाठः

ए॒व । ता । विश्वा॑ । च॒कृ॒ऽवांस॑म् । इन्द्र॑म् । म॒हाम् । उ॒ग्रम् । अ॒जु॒र्यम् । स॒हः॒ऽदाम् ।
सु॒ऽवीर॑म् । त्वा॒ । सु॒ऽआ॒यु॒धम् । सु॒ऽवज्र॑म् । आ । ब्रह्म॑ । नव्य॑म् । अव॑से । व॒वृ॒त्या॒त् ॥

सायणभाष्यम्

हेइन्द्र त्वा त्वां नव्यं नूतनमन्यैरकृतपूर्वं ब्रह्म अस्माभिःकृतंस्तोत्रं अवसेअस्माकंरक्षणाय आववृत्यात् आवर्तयतु कीदृशंत्वां एव एवमु- क्तप्रकारेण ता तानिप्रसिद्धानि विश्वा विश्वानिसर्वाणिकर्माणि चकृवांसं कृतवन्तमिन्द्रमीश्वरं महां महान्तं उग्रमोजस्विनं अजुर्यमजरं सहोदां सहसोबलस्यदातारं सुवीरं शोभ्नवीरामरुतोयस्यतं स्वायुधंशोभनायुधं सुवज्रं शोभनवज्रोपेतं ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः