मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १७, ऋक् १४

संहिता

स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् ।
भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥

पदपाठः

सः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒ऽमतः॑ । इ॒न्द्र॒ । विप्रा॑न् ।
भ॒रत्ऽवा॑जे । नृ॒ऽवतः॑ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये॑ । नः॒ । इ॒न्द्र॒ ॥

सायणभाष्यम्

हेइन्द्र सत्वं द्युमतोदीप्तिमतः विप्रान्मेधाविनोस्मान् वाजाय बलाय श्रवसे यशसे इषेचान्नायच राये धनाय धेहिधारय अपिच हेइन्द्र भरद्वाजेमयि नृवतोमनुष्यवतः परिचारकयुक्तानित्यर्थः सूरीन् तवस्तोतॄन् पुत्रपौत्रान्कुर्वितिशेषः हेइन्द्र त्वं पार्ये पारणीये आगामिनिच दिविदिवसे एधिस्म नोस्माकंरक्षिताखलुभवेत्यर्थः ॥ १४ ॥ षष्ठोनितृतीयसवनेब्राह्मणाच्छंसिशस्त्रे अनुरूपतृचस्य अयावाजमितितृतीया सूत्रितंच—अयावाजंदेवहितंसनेमेतिस्तोत्रियानरूपा- विति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः