मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् १

संहिता

तमु॑ ष्टुहि॒ यो अ॒भिभू॑त्योजा व॒न्वन्नवा॑तः पुरुहू॒त इन्द्र॑ः ।
अषा॑ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । अ॒भिभू॑तिऽओजाः । व॒न्वन् । अवा॑तः । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
अषा॑ळ्हम् । उ॒ग्रम् । सह॑मानम् । आ॒भिः । गीः॒ऽभिः । व॒र्ध॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

अभिभूत्योजाः अभिभावुकतेजाः वन्वन् शत्रून् हिंसन् अवातः शत्रुभिरहिंसितः वनोतेर्निष्ठान्तस्यनञ् पूर्वस्यरूपं यद्वा वातेर्वातं अनभिगतः पुरुहूतः बहुभिराहूतः यइन्द्रोस्तीतिशेषः हेभरद्वाज तमुष्टुहि तमेवेन्द्रंस्तुहि अपिच आभिर्वक्ष्यमाणाभिर्गीर्भिः स्तुतिरूपाभि- र्वाग्भिः तमिन्द्रं वर्ध वर्धय कीदृशं अषाह्ळमनभिभूतं उग्रमुद्गूर्णमोजस्विनंवा सहमानं शत्रूनभिभवन्तं चर्षणीनां प्रजानांसंबन्धिनं वृषभं वर्षितारं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः