मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् २

संहिता

स यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी ।
बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑ ॥

पदपाठः

सः । यु॒ध्मः । सत्वा॑ । ख॒ज॒ऽकृत् । स॒मत्ऽवा॑ । तु॒वि॒ऽम्र॒क्षः । न॒द॒नु॒ऽमान् । ऋ॒जी॒षी ।
बृ॒हत्ऽरे॑णुः । च्यव॑नः । मानु॑षीणाम् । एकः॑ । कृ॒ष्टी॒नाम् । अ॒भ॒व॒त् । स॒हऽवा॑ ॥

सायणभाष्यम्

बृहद्रेणुः बृहतोमहतोरेणोः पांसोरुत्थापकः संग्रामेष्वितियावत् एकोमुख्यः सहावा बलवान् सइन्द्रः मानुषीणां मनोःसंबन्धिनीनां कृ- ष्टीनां प्रजानांयजमानानां च्यवनः अभिगन्ता अभवत् आसीत् कीदृशः युध्मोयोद्धा सत्त्वादाता सनोतेर्भेदनार्थस्येदंरूपं खजकृत् खजानां- संग्रामाणांकर्ता खजइतिसंग्रामनामैतत् समद्वा यजमानैःसहमदःसमत् तद्वान् तुविम्रक्षः मृक्षतिःसंस्नेहकर्मा तुवीनां बहूनां वर्षणेन संस्नेह- नकर्ता नदनुमान् शब्दवान् ऋजीषी ऋजीषशब्देन्सवनद्वयाभिषुतः पुनस्तृतीयसवनेप्यभिषुतः सोमउच्यते तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः