मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् १८, ऋक् ४

संहिता

सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ ।
उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥

पदपाठः

सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ ।
उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥

सायणभाष्यम्

पूर्वमंत्रे इन्द्र्स्यबलसदसद्भावं सन्दिह्यानयाबलमस्त्येवेत्यव्धारयन्नाह हियस्मादर्थे यस्मात्कारणात् हेसहिष्ठ बलवत्त् मेन्द्र तुविजात- स्य बहुयज्ञेषुप्रादुर्भूतस्य तुरतः अस्मान्हिंसतः तुरस्यशत्रूणांहिंसितुःबलवतोवा तेतव सहोबलं सदित् विद्यमानमेवाहंमन्ये उग्रस्य ओज- स्विनः तवसः प्रवृद्धस्य अरध्रस्य शत्रुभिर्वशीकर्तुमशक्यस्य रधेर्वशीकरणार्थस्यरूपं रध्रतुरः वशीकरणीयानांसपत्नानांहिंसकस्यतव बलं बभूव भवत्येव कीदृशं उग्रं उद्गूर्णं तवीयः प्रवृद्धतरं यतस्त्वंवृत्रादीन् शत्रून् हंसि अतस्तेबलंविद्यतएवेत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः